तत्रापि स्थलनदीपर्वतदुर्गाणामुत्तरोत्तरं श्रेयः। 366 4
सेतुबन्धयोरप्याहार्योदकात्सहोदकश्श्रेयान्। सहोदकयोरपि
प्रभूतवापस्थानः श्रेयान् ।
द्रव्यवनयोरपि यो महत्सारवद्रव्याटवीकं विषयान्ते नदीमा-
तृकं द्रव्यवनं छेदयति, सोतिमंधत्ते । नदीमातृकं हि स्वाजी.
वमपाश्रयश्च आपदि भवति ।
हस्तिमृगवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशमनन्तावक्लेशि
विषयान्ते हस्तिवनं बध्नाति, सोतिसंधत्ते ।
तत्रापि---" बहुकुण्ठाल्पशूरयोरल्पशूरं श्रेयः । शूरेषु हि
युद्धम् । अल्पाश्शूरा बहून् अशूरान् भञ्जन्ति ते भग्नास्वसैन्याव-
घातिनो भवन्ति" इत्याचार्याः।
नेति कौटि[१]ल्यः-कुण्ठा बहवः, श्रेयांसः स्कन्ध[२]विनियोगाद-
नेकं कर्म कुर्वाणाः स्वेषामपाश्रया युद्ध परेषां दुर्धर्षा विभीष-
णाश्च । बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यमाधातुं न
त्वेवाल्पेषु शूरेषु बहुत्वमिति ।
खन्योरपि यः प्रभूतसारामदुर्गमार्गामल्पव्ययारम्मा खनिं
खानयति, सोतिसंधत्ते।
तत्रापि-महासारमल्पमल्पसारं वा प्रभूतामिति ? महासा- 367 3
रमल्पं श्रेयः वज्रमणिमुक्तापवाळहेमरूप्यधातुर्हि प्रभूतमल्पसार-
मत्यर्धेण ग्रसते " इत्याचार्याः ।