पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
296
[ अधि. ११ अध्या.
षागण्यम्


परसस्यमल्पवर्षपाकमसक्तारम्भं श्रेयः । औदकयोरपि धान्य.
वापमधान्यवापाच्छ्रेयः । तयोरल्पबहुत्वे धान्यकान्तादल्पान्म-
हृदधान्यकान्तं श्रेयः । महत्यवकाशे हि स्थाल्याश्वानूप्याश्चौ-
षधयो भवन्ति । दुर्गादीनि च कर्माणि प्राभूत्येन क्रियन्ते ।
कृत्रिमा हि भूमिगुणाः ।

 खनिधान्य भोगयोः खनिभोगः कोशकरः ; धान्यभोगः को-
शकोष्ठागारकरः, धान्यमूल्या[१]' हि दुर्गादीनां कर्मणामारम्भः ;
महाविषयविक्रयो वा खानभोगः श्रेयान् ॥

 "द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः म.
भूतनिधानक्षमश्च । विपरीतो हस्तिवनभोग इत्याचार्याः ॥

 नेति कौटि[२]ल्यः-शक्यं द्रव्यवनमनेकमनेकस्यां भूमौ वा-
पयितुं न हस्तिवनं ; हस्तिप्रधानो हि परानीकवध इति ॥

 वारिस्थलपथभागयोरनित्यो वारिपथभोगो नित्यस्स्थल-
पथभोग इति ॥

 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति ?--भिन्नमनुष्या
श्रेयसी ! भिन्नमनुष्या भोग्या भवत्यनुपजाप्या चान्येषाम् ।
अनापत्सहा तु विपरीता श्रेणीमनुष्या कोपे महादोषः ॥

 तस्यां चातर्वण्याभिनिवेशंप्राश्रे
यसी बाहुल्यात् ध्रुवत्वाच्च । कृष्याः कर्षणवतीः कुष्या


  1. धान्यमूलो