पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
[१ अधि. १ अध्या.
विनयाधिकारिकम्

आक्षपटले[१] गाण[२]निक्याधिकारः । समुदयस्य युक्तापहृतस्य प्रत्यानयनम् । उपयुक्तपरीक्षा । शासनाधिकारः । कोशप्रवेश्यरत्नपरीक्षा । आकरकर्मान्तप्रवर्तनम् । अक्षशालायां सुवर्णाध्यक्षः । विशिखायां सौवर्णिकप्रचारः । कोष्ठागाराध्यक्षः । पण्याध्यक्षः । कुप्याध्यक्षः । आयुधागाराध्यक्षः । तुलामानपौतवम् । देशकालमानम् । शुल्काध्यक्षः । सूत्राध्यक्षः । सीताध्यक्षः । सुराऽध्यक्षः । सूनाध्यक्षः । गणिकाऽध्यक्षः । नावध्यक्षः । गोऽध्यक्षः । अश्वाध्यक्षः । हस्त्यध्यक्षः । रथाध्यक्षः । पत्त्यध्यक्षः । सेनापतिप्रचारः । मुद्राऽध्यक्षः । विवीताध्यक्षः । समाहर्तृप्रचारः । गृहपतिवै[३]देहकतापसव्यञ्जनाः प्रणिधयः । नागरिक[४] प्रणिधिः । इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥


 व्यवहारस्थापना । विवादपदनिबन्धः । विवाहसंयुक्तम् । दायविभागः । वास्तुकम् । समयस्यानपाकर्म । ऋणादानम् । औपनिधिकम् । दासकर्मकरकल्पः । सम्भूयसमुत्थानम् । विक्रीतक्रीतानुशयः । दत्तस्यानपाकर्म । अस्वामिविक्रयः ।। स्वस्वामिसम्बन्धः । साहसम् । वाक्पारुष्यम् । दण्डपारुष्यम् । द्यूतसमाह्वयम् । प्रकीर्णकानि ॥ इति धर्मस्थीयं तृतीयमधिकरणम् ॥


  1. पाले.
  2. गण.
  3. पतिकवै.
  4. रीक.