पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११-१२ प्रक]
281
सहितप्रयाणिकम् परिपणितापरिमाणातपसृतसन्धयश्च

स्य च निबन्धनस्यावर्तनं[१] रक्षणं च “कथं परस्मान्न भिद्येत 346 5
इति" कृतश्लेषणम् ॥

 परस्य अव [२] सन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यति-
क्रमः कृतविदूषणम् ॥

 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानमवशीर्णक्रिया॥
 तस्यां गतागतश्चतुर्विधः-कारणात् गतागतः, विपरीतः,
कारणात् गतोऽकारणादागतः, विपरीतश्चेति ॥

 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो
दोषेणागत इति कारणात् गतागतस्सन्धेयः ॥

 स्वदोषेण गतागतो गुणमुभयोः परित्यज्य अकारणात्
गतागतश्चलबुद्धिरसन्धेयः ॥

स्वामिनो दोषेण गतः, परस्मात् स्वदोषेणागत इति का-
रणात् गतोऽकारणादागतस्तर्कयितव्यः ।।

 “परप्रयुक्तः स्वेन वा दोषणापकर्तुकामः परस्योच्छेत्तार-
ममित्रं मे ज्ञात्वा प्रतिधातभयादागतः, परं वा मामुच्छेत्तुकामं
परित्यज्यानृशस्यादागतः" इति ज्ञात्वा कल्याणबुद्धिं पूज-
येदन्यथाबुद्धिमपकृष्टं वासयेत् ॥

 स्वदोषेण गतः परदोषेणागत इत्यकारणात् गतः कार- 347 4
णादागतस्तर्कयितव्यः-"छिद्रं मे पूरयिष्यत्युचितोऽयमस्य वासः

परत्रास्य जनो न रमते ; मित्र में संहितः शत्रुभिर्विग्रहीतो लु.


  1. निबन्धनस्यावर्तन
  2. अव