पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४-१० प्रक]
275
यातव्याभित्राभिग्रहचिन्ता-क्षयलोभविरागतव

तत्सिद्धो यातव्यम्। अमित्रसिद्धौ स[१] यातव्यस्साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ।

 गुरुव्यसनं यातव्यं, लघुव्यसनममित्रं वेति ?

 "गुरुव्यसनं सौकर्यतो यायात्" इत्याचार्याः ।

 "न" इति कौटि[२] ल्य:-लघुव्यसनममित्रं यायात्। लध्वपि[३] व्यसनमाभियुक्तस्य कृछूं[४] भवति । सत्यं गुर्वपि गुरुतरं भवति । अनभियुक्तस्तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यमभिसरेत् । पार्ष्णिं गृह्णीयात् ।।

 यातव्ययौगपद्ये गुरुव्यसनं न्याय्य[५] वृत्ति लघुव्यसनमन्याय्य[६] वृत्तिं विरक्तप्रकृतिं वेति?

 विरक्तप्रकृति यायात् । गुरुव्यसनं न्यायवृत्तिमभियुक्तं प्रकृ- तयोऽनुगृह्णान्ति । लघुव्यसनमन्यायवृत्तिमुपेक्षन्ते। विरक्ता बल वन्तमप्युच्छिन्दन्ति । तस्माद्विरक्तिप्रकृतिमेव यायात् ।

 क्षीणलुब्धप्रकृतिमपचरितप्रकृति वेति:--"क्षीणलुब्धप्रकृ- तिं यायात् । क्षीणलुब्धा हि प्रकृतयस्सुखेनोपजापं पीडां वोप गच्छन्ति। नापचरिताः प्रधाना अवग्रहसाध्याः" इत्याचार्याः ।

 "न" इति कौटिल्य[७]:-क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति, अनुरागे

सार्वगुण्यमिति । तस्मादपचरितप्रकृतिमेव यायात् ।



  1. हि
  2. लवपि हि
  3. युक्तस्य तु ध्रुव,
  4. न्याय,
  5. न्याय,