पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
372
[ अधि ४ अध्या
षड्गुण्यम्

१०३-.७ प्रक, विगृह्यासनं, सन्धायासनं,

विगृह्ययान, सन्धाययानं, सम्भूय-

प्रयाणं च.

 सन्धिविग्रहयोरासनं यानं च व्याख्यातम् । स्थानमा- सनमुपेक्षणं चेत्यामनपर्याया । विशेषस्तु--गुणैकदेशे स्थानं, स्ववृद्धिपाप्त्यर्थं आसनमासन ; अपायानमप्रयोग[१] उपेक्षणमिति । सन्धानकामयोरपि[२] विजिगीष्वोरुपहन्तुमशक्तयोर्विगृह्यासनं सन्धाय वा।

 यदा वा पश्येत्-"स्वदण्डैमित्राटवीदण्डैर्वा समं ज्या- यांसं वा कर्शयितुमुत्सहे" इति, तदा कृतवाह्याभ्यन्तरकृत्यो विगृह्यासीत ।।

 यदा वा पश्येत्--" उत्साहयुक्ता में प्रकृतयस्संहता वित्र द्धाम्स्वकर्मण्यव्याहताश्चरिष्यन्ति, परस्य वा कर्माण्युपहनिष्य. न्ति" इति तदा विगृह्यासीत ॥

 यदा वा पश्येत्-" परस्यापचारिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवाव्यथिता वा प्रकृतयस्स्वयमुपजापेन वा मामेष्यन्तीति सम्पन्ना मे वार्ता, विपन्ना परस्य, तस्य

प्रकृतयो दुर्भक्षोपहता मामेष्यन्ति, विपन्ना[३] मे वार्ता, सम्पन्ना[४] परस्य, तं मे प्रकृतयो न गमिष्यान्ति , विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि स्वपण्योपधातीनि वा परपण्या-



  1. प्राप्त्यर्थमासनमुपायानामप्रयोग.
  2. कामयोगरि
  3. सम्पन्ना
  4. विपन्ना.