पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०० प्रक.]
267
सश्रयतृत्तिः

१०० प्रक, संश्रयवृत्तिः.


 सन्धिविग्रहयोस्तुल्यायां वृद्धौ सन्धिमुप्यात् । विग्रहे हि क्षयव्ययप्रवासप्रत्वाया भवन्ति ।

 तेनासनयानयो रासनं व्याख्यातम् ।  द्वैधीभावसश्रययोर्द्वैधीभावं गच्छेत् । द्वैधीभूतो हि स्वकर्म- प्रधान आत्मन एवोपकरोति । संश्रितस्तु परस्योपकरोति, नात्मनः।

 यद्बलस्सामन्तः तद्विशिष्टबलमाश्रयेत तद्विशिष्टबलाभावे तमेवाश्रितः कोशदण्डभूमीनामन्यतमेनास्योपकर्तुमदृष्टः प्रयतेत ॥ महादोषो हि विशिष्टबलसमागमो राज्ञामन्यत्रारिगृहीतात्[१]

 अशक्यो दण्डोपनतवद्र्वतेत ।

 यदा चास्य प्राणहरं व्याधिमन्तःकोपं शत्रुवृद्धिं मित्रव्यसनमुपस्थितं वा तन्निमित्तमात्मनश्च वृद्धिं पश्येत्, तदा सम्भाव्य व्याधिधर्मकार्यापदेशेनापयायात्। स्वविषयस्थो वा नोपगच्छेत्।

 आसन्नो वाऽस्य छिद्रेषु प्रहरेत् ।

 बलीयसोर्वा मध्यगतस्त्राणममर्थमाश्रयेत् । यस्य वाऽन्तर्द्धिस्स्यात् उभौ वा कपालसंश्रयस्तिष्ठेत्। मूलहरामितरस्येतरमपदिशेत् । भेदमुभयोर्वा; परस्परापदेशं प्रयुञ्जीत । भिन्नयोरुपांशु दण्डम् । पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत दुर्ग-



  1. विगृहीतात.