पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
266
[७अधि. २ अध्या.
पाड्गुण्यभ्

3292 प्राप्तकर्मोपघातकाले इति; विगृहीतस्यान्यतो वा शक्ष्यामि जनपदमपवाहयितुम् " इति विग्रहे स्थितो वृद्धिमानिष्ठेत् ॥

 यदि वा मन्येत- "न में शक्तः परः कर्माण्युपहन्तुं; नाह तस्य कर्मोपघाती वा; व्यसनमस्य श्ववराहयोरिव कलहे वा; स्वर्कमानुष्ठानपरो वा वर्धिष्ये' इत्यासनेन वृ- द्धिमातिष्ठेत् ॥

330'5  यदि वा मन्येत---" यानसाध्यः कर्मोपघातः शत्रोः प्रतिविहितस्वकर्मारक्षश्चास्मि" इति यानेन वृद्धिमातिष्ठेत् ॥

 यदि वा मन्येत -- " नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्मोपघात वा त्रातुम्" इति बलवत्तमाश्रितः[१] स्वकर्मानुष्ठा- नेन क्षयात् स्थानं स्थानावृद्धिं चाकाङ्क्षेत ।।

 यदि वा मन्येत्त ---" सन्धिनैकतः स्वकर्माणि प्रवर्तयिष्यामि विग्रहेणैकतः परकर्माण्युपहनिष्यामि" इति द्वैधीभावेन वृद्धिमातिष्ठेत् ।।

 एवं षइभिर्गुणैरेते. स्थितः प्रकृतिमण्डले ।
 पर्येषेत[२] क्षयात् स्थानं स्थानाद्वृद्धिं च कर्मसु ॥

इति षाड्गुण्ये सप्तमेऽधिकरणे षाइगुण्यसमुद्देशः

क्षयस्थानवृद्धिनिश्चयश्च प्रथमोऽध्यायः

आदितो नवनवति.




  1. विलवन्तमाश्रित.
  2. पर्यष्येत.