पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८, ९९ प्रक.]
263
षागुण्यसमुद्देश, क्षयस्थानबृद्धिनिश्चयश्च

७ अधि. षाड्गुण्यम्.

९८-९९ प्रक. षाड्गुण्यसमुद्देशः,

क्षयस्थानवृद्धिनिश्चयश्च.


 षाड्गुण्यस्य प्रकृतिमण्डलं योनिः ॥ 3271

 "सन्धिविग्रहासनयानसंश्रयद्वैधीभावाष्षाड्गुण्यम्" इत्या- चार्याः ।।

 "द्वैगुण्यम्" इति वातव्याधिः, “सन्धिविग्रहाभ्यां हि षाइगुण्यं सम्पद्यते” इति ॥

 "षाडगुण्यमेवैतदवस्थाभेदात् " इति कौटि[१] ल्यः ।।

 तत्र -पणबन्ध सन्धिः; अपकारो विग्रहः; उपेक्षणमासनं ; अभ्युच्चयो यानं; परार्पणं संश्रयः; सन्धिविग्रहोपादानं द्वैधीभावः इति षड्गुणाः ।।

 परस्माद्धीयमानः संदधीत ॥
 अभ्युच्चीयमानो विगृह्णीयात् ॥
 "न मां परो नाहं परमपहन्तुं शक्तः" इत्यासीत ॥
 गुणातिशययुक्तो यायात् ॥
 शक्तिहीनस्संश्रयेत ॥
 सहायसाध्य[२] कार्यें द्वैधीभावं गच्छेत् ।।

 इति गुणावस्थापनम् ॥



  1. ट,
  2. साध्ये