पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
262
[आधि. २ अध्या
मण्डलयोनिः

3246 यितुम् । साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत ।

 यदि वा पश्येत्- “अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति । सिद्धियुक्तो वा मृगयाध्युत मद्यस्त्रीभिः प्रमादं गमिष्यति स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति , विग्रहाभियुक्तो वा सर्वसन्दोहेनैकस्थो दुर्गस्थो वा स्थास्यति स संहितसैन्यो मित्रदुर्गनियुक्तस्साध्यो मे भविष्यति । 'बलवान्वा राजा परतः शत्रुमुच्छेत्तुकामस्तमुच्छिन्द्यामानमुच्छिन्द्यादिति[१]' बलवता प्रार्थिनस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति । मध्यमलिप्सायां चेति"। एवमादिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चेच्छेत् ।

 नेयिमेकान्तराद्वाज्ञः कृत्वा चानन्तरानरान् ।
 नाभिमात्मानमायच्छेत नेता प्रकृतिमण्डले ॥

 मध्येऽभ्युपहितः शत्रुः[२] नेतुं[३] मित्रस्य चोभयोः ।
 उच्छेद्यः पीडनीयो वा बलवानिव[४] जायते ।।

इति मण्डलयोनौ षष्ठेऽधिकरणे शमव्यायामिक

द्वितीयोऽध्याय आदितोऽष्टनवतिः ।

एतावता कौटिलीयस्थार्थशास्त्रस्य मण्डलयोनिः

षष्ठमधिकरण समाप्तम् .


    1. 7start##


  1. मुच्छिद्य न मामुच्छिन्धादिति.
  2. शत्रून्
  3. नेतु
  4. वानपि.