पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
260
[६ अधि २ अध्या.
मण्डलयोने

8225  क्षयस्स्थानं वृद्धिरित्युदयाः । तस्य मानुषं नयापनयोौ ॥

{{gap}दैवमानुषं हि कर्म लोकं पावति[१]। अदृष्टकारितं दैवं, तस्मिन्नष्टेन फलेन योगोऽयः[२]

 दृष्टकारितं मानुष, तस्मिन् योगक्षेमनिष्पत्तिर्नयः । विपत्तिरफ्नयः । तच्चिन्त्यम् । अचिन्त्यं दैवमिति ।

 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्टानं विजिगीषुः । तख्य समन्ततो मण्डलीभूता भूम्यन्तरा[३] अरिप्रकृतिः । तथैव भूम्येकान्तरा मित्रप्रकृतिः।

 अरिसम्पद्युक्तः सामन्तः शत्रुः ।

 व्यसनी यातव्य अनपाश्रयो दुर्बलाश्रयो वोच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।

3231  इत्याविशेषाः ।

 तस्मान्मित्रमरिमित्रं मित्रमित्रं अरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यते पुरस्तात् ।

 पश्चात्पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासार इति ॥

 भूम्यनन्तरं प्रकृत्यमित्रः तुल्याभिजनस्सहजः । विरुद्धो चिरोधयिता वा कृत्रिमः।

 भूम्येकान्तरं प्रकृतिमित्रं मातापितृसम्बन्धं[४] सहज, धन-

जीवितहेतोराश्रितं कृत्रिममिति ।



  1. लोकमवति ; लोक यापयति
  2. योगोऽयः । अनिष्टेनानय ।
  3. भूम्यनन्तरा.
  4. सम्बद्ध