पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
254
[५अधि.६अध्या
योगवृत्तम्

९४, ९५ प्रक. राज्यप्रतिसन्धानमेकैश्वर्यं च.


3151  राजव्यसनमेवममात्य प्रतिकुर्वीत । प्रागेव मरणाबाघभयाद्राज्ञः प्रियहितोपग्रहेण मासाद्विमासान्तरं दर्शनं स्थापयेत् ।"देशपीडापहममित्रापहमायुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन राजव्यञ्जनमनुरूपवेलायां प्रकृतीनां दर्शयेत् , मित्रामित्रतानां च । तैश्च यथोचितां सम्भाषां अमात्यमुखो गच्छेत्[१] । दौवारिकान्तर्वशिकमुखश्च यथोक्तं राजप्रणिधिमनुवर्तयेत् । अपकारिषु च हेडं प्रसादं वा प्रतिकान्त[२] दर्शयेत् । प्रसादमेवोपकारिषु । आप्तपुरुषाधि- ष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत् । तुल्य[३] कुमारमुख्यांश्चान्यापदेशेन ।।

 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तमुपग्राहयेत् । बाह्याबाधां[४] वा यात्रां प्रेषयेत् मित्रकुलं वा ॥

 यस्माज्च सामन्तादावाधां[५] पश्येत्तमुत्सवविवाहहस्तिबन्ध नाश्वपण्यभूमिप्रदानापदेशेन अवग्राहयेत् ॥

 स्वमित्रेण वा ततः सन्धिमदूष्यं कारयेत् ।
 आटविकामित्रैर्वा वैरं ग्राहयेत् ।।
 तत्कुलीनमवरुद्धं या भूम्येकदेशेनोपग्राहयेत् ॥

3162  कुल्यकुमारमुख्योपग्रहं कृत्वा वा कुमारमाभषिक्तमेव दर्श येत् । दाण्डधर्मिकबद्धा राज्यकण्टकानुद्धृत्य राज्यं कारयेत् ।।



  1. यच्छेत्.
  2. प्रकृत्तिकान्त
  3. कुल्य.
  4. बाबाधा.
  5. दावाधं.