पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
250
[१६ अधि, ४ अध्या
योगवृत्तम्

९२ प्रक. अनुजीविवृत्तम.


 लोकयात्रावित् राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत[१] । यं वा मन्येत यथा-- अहमाश्रयेप्सुरेवमसौ विनयेप्सुराभिगामिकगुणयुक्तः" इति ॥

 द्रव्यप्रकृतिहीनमप्येनमाश्रयेत । न त्वेवानात्मसम्पन्नम् । अनात्मवान् हि नीतिशास्त्रद्वेषादानीसंयोगाद्वा प्राप्यापि म. हदैश्वर्यं न भवति । आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात् । आविसंवादाद्धि स्थानस्थैर्यमवाप्नोति । मतिकर्मसु पृष्टः तदात्वे च आयत्यां च धमार्थसयुक्तं समर्थं प्रवीण वदपरिषद्भीरुः कथयेत् । ईप्सितः पणेत-~-धर्मार्थानुयोगं "अविशिष्टेषु बलवत्संयुक्तेषु दण्डदारणं, बलवत्संयोगे तदा- त्वे च दण्डधारणमिति, न कुर्या; पक्षं वृत्तिं गुह्यं च मे नोपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम्" इति। आदिष्टः प्रदिष्टायां भूमायनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतस्सन्निकृष्टः विप्रकृष्टः परासनं, विगृह्य कथनमसभ्यप[२] त्य क्षमश्रद्धेयमनृतं च वाक्यमुञ्चैरनर्मणि हासं वातष्ठीवने च शब्द वती न कुर्यात् । मिथः कथनमन्येन, जनवादे द्वन्द्वकथनं, राज्ञो वेषमुद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनं एका- क्ष्योष्ठनिर्भोग भृकुटीकर्म, वाक्यापक्षेपणं च ब्रुवति; बलवत्स्तं- युक्तावरोधं स्त्रीभिः स्त्रीदर्शिभिस्सामन्तदूतैर्द्वेष्य पक्षावक्षिप्तान-

र्थ्यैश्च प्रतिसंसर्गमेकार्थचर्यां सङ्घातं च वर्जयेत् ॥



  1. येत
  2. मसभ्यमन