पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
248
[१५ अधि.३ अध्या.
योगवृत्तम

3086 शिल्पवन्तः पादाताः सङ्खचायकलेखकादिवर्गः पञ्चशताः ।कुशीलवास्त्वर्धतृतीयशताः । द्विगुणवेतनाचैषां तुर्यकराः । कारुशिल्पिनो विंशतिशतिकाः ।

 चतुष्पदद्विपदपरिचारकपारिकर्मिकोपस्थायिकपालकावष्टि- बन्धकाष्षष्ठिवेतनाः ।

 आर्य[१] युक्तारोहकमाणवकशैलखनकास्सर्वोपस्थायिन आचा- र्या विद्यावन्तश्च पूजावेतनानि यथार्ह लमेरन्-पञ्चशतावरं सह- स्त्रपरम् ।

 दशपणिको योजने दूतः मध्यमः; दशोत्तरे द्वि[२] गुणवेतन- आयोजनशतादिति ।

 समानविद्येभ्यस्त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु राज्ञस्सारथिः साहस्रः ।

 कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनास्साहस्साः ।

 ग्रामभृतकसत्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः ।
 चारसञ्चारिणः तृती[३] यशता प्रयासवृद्धवेतना वा ।

 शतवर्गसहस्रवर्गाणामध्यक्षा भक्तवेतनलाभमादेशं विक्षेपं च कुर्युः । अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च नित्यमु- ख्यास्स्युरनेकमुख्याश्च ।

3097  कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन् । बालवृद्धव्या- धिताश्चैषामनुग्राह्याः । प्रेतव्याधितसूतिकाकृत्येषु चैषामर्थमान-

कर्म कुर्यात् ।



  1. कार्य
  2. दशोत्तरद्वि
  3. अर्धटतीय