पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
244
[अधि,२ अध्या
यागवृत्तम्

3034 र्यमपदिश्य पौरजानपदान् भिक्षेता योगपुरुषाश्चात्र पूर्वमतिमात्रं दद्युः । एतेन प्रदेशेन राजा पोरजानपदान भिक्षेत । कापटिकाश्चैनानल्पं प्रयच्छतः कुत्सयेयुः। सारतो वा हिरण्य- माढ्यान्याचेत । यथोपकारं वा स्ववशा वा यदुपहरेयु- स्थानछत्रवेष्टनाविभूषाश्चैषां हिरण्येन प्रयच्छेत् । पाषण्डस' ह्रद्रव्यमश्रोत्रियभोग्यं देवद्रव्यं वा कृषकराः प्रेतस्य दग्ध- गृहस्य वा हस्ते न्यस्तमित्युपहरेयुः ॥

3033  देवताध्यक्षो दुर्गराष्ट्रदेवतानां[१] यथास्वमेकस्थं कोशं कुर्यात् ।तथैव चाहरेत् । दैवतचैत्यं सिद्धपुण्यस्थानमौपपादिकं[२] वा रात्रावुत्थाप्य यात्रासमाजाभ्यामाजीवेत् ! चैत्योपवनवृक्षेण या देवताभिगमनमनार्तवपुष्पफलयुक्तेन ख्याापयेत् । मनुष्यकरं वा वृक्षे रक्षोभयं रूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हि. रण्येन प्रतिकुर्यु. । सुरङ्गायुक्ते वा कूपे नागमनियतशिरस्कं हिरण्योपहरणे[३] दर्शयेत् । नागमतिमायामन्तश्छिद्रायां चैत्र- च्छिद्रे वल्मीकाछिद्रे वा सर्पदर्शनमाहारेण प्रतिबन्धसंज्ञं कृत्वा श्रद्धधानाना[४] दर्शयेत् । अश्चद्दधानानामाचमनप्रोक्षणेषु रसमुप- चाय्य[५] देवताभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा योगदर्शनप्रतीकारेण वा कोषाभिसंहरण कुर्यात् ।।

8051  वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत। स यदा पण्यमूल्ये निक्षपश्योगैरुपचितस्स्यात्तदैनं रात्रौ मोपयेत् ।।



  1. चावहरेत
  2. स्थानभौमवादिक
  3. हारण
  4. नाना
  5. रसमवपाध्य