पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२० प्रक.]
248
कांशाभिसंहरणम्

 चतुर्थमंशं धान्यानां षष्टं वन्यानां तूललामाक्षौमवल्ककार्पा 3023 सरौमकौशेयकौषय[१] गन्धपुष्पफलशाकपण्यानां काष्टवेणुमांसवल्लू राणां च गृह्णीयु.। दन्ताजिनस्यार्घम् । अनिसृष्टं[२] विक्रीणानस्य पूर्वस्साहसदण्ड ।

 इति कर्षकेषु प्रणयः॥

 सुवर्णरजतवज्रमणिमुक्ताप्रवाळाश्वहस्तिपण्या पञ्चाशत्कारा! सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यसीधु [३]पण्याश्चत्वारिंशत्कराः । धा न्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्करा काचव्यव- हारिणो महाकारवश्व विंशतिकराः। क्षुद्रकारको वर्धकिपोषका- श्च दशकराः। काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्या: प- ञ्चकराः ! कुशीलवा रूपाजीवाश्च वेतनार्धं दध्यु । हिरण्य- करकर्मण्यानाहारयेयुः । न चैषां कञ्चिदपराधं परिहरेयुः । ते ह्यपारगृहीतमभिनीय विक्रिणीरन् ।

 इति व्यवहारिषु प्रणयः ॥

 कुकुटसूकरमर्धं दद्यात् । क्षुद्रपशवष्षड्भागम् । गोमहिषा- श्वतरखरोष्ट्राश्च दशभागम् । बन्धकिपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयु' ||

 इति योनिपोषकेषु प्रणय ॥

 सकृदेव न द्विः प्रयोज्यः । तस्याकरणे वा समाहर्ता का- 3034



  1. कोषट
  2. तदनिसृष्ट
  3. शोधु