यित्वा ब्रूयुः “एवं क्रियन्ते येऽमुना कलाहायन्ते " इति । तेन 3006 दोषेणेतरे नियन्तव्याः।
येषां वा दूष्याणां जातमूलाः कलहाः तेषां क्षेत्रखलवे- श्मान्यादीपयित्वा बन्धुसम्बन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्र पातयित्वा तथैव ब्रूयुः "अमुना[१] प्रयुक्ताः स्मः" इति । तेन दोषेणेतरे नियन्तव्याः ।
दुर्गराष्ट्रदूष्यान् वा सत्रिणः परस्परस्यावेशनिकान्[२] कारये युस्तत्र रसदा रसं दधुस्तेन दोषेणेतरे नियन्तव्याः ।
भिक्षुकी का दृष्यराष्ट्रमुख्यं दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयत इत्युपजपेत्[३] । प्रतिपन्नस्याभरणमादा- य स्वामिने दर्शयेत्-" असौ ते मुख्यो यौवनोत्सिक्तो भार्या स्नुषां दुहितर वाऽभिमन्यते” इति । तयोः कलहो रात्राविति समानम् ।
दूष्यदण्डोपनतेषु तु युवराजः सेनापतिर्वा किञ्चिदुपकृत्या- पकान्तो विक्रमेत । ततो राज[४] दूष्यदण्डोपनतानेव प्रेषयेत फल्गुवलतीक्ष्णयुक्तनिति समानास्सर्व एव योगाः।
तेषां च पुढेष्वनुक्षिपत्सु यो निर्विकारः स पितुदाय लभेत! 301 4
एवमस्य पुत्रपौत्राननुवर्तते [५] राज्यमपास्तपुरुषदोषमिति ।