प्रहारेण मर्भ पातयत उत्तमो दण्डः। भैषज्येन म- 2865
ध्यमः ! परिक्लेशेन पूर्वस्साहसदण्डः ॥
प्रसमस्त्रीपुरुषघातकाधीसारकानिग्राहकायघोषकावस्वन्दको
पवेधकान् पथि वेश्मप्ररोधकान् राजहस्त्यश्वरथानां हिंसकान्
स्तेनान्वा शूलानारोह[१]येयु.॥
यश्चैनान् दहेदपनयेद्वा स तमेव दण्डं लभेत साहसमुत्तमंवा ॥
[२]हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैयावृत्यकर्मसू-
तमोदण्डः । परिभाषणमविज्ञाने ।। हिंस्रस्तेनानां पुत्रदारम-
समन्त्रं विसृजेत् समन्त्रमाददीत ॥
राज्यकामुकमन्त पुरप्रधर्षकमटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्ड
कोपर्क वा शिरोहस्तप्रादीपिकं घातयेत् ॥
ब्राह्मणं तमपः[३] प्रवेशयेत ।।
मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वा त्वक्छिर:प्रादीपिकं
घातयेत् । तेषामाक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तदङ्गा-
न्मोच्य ॥
यदृच्छाघाते पुंसः, पशुयूथस्तेये[४] च शुद्धवधः ॥
दशावरं च यूथं विद्यात् ॥
उदकधारणं सेतुं भिन्दतस्तत्रैवाप्सु निमज्जनम् । अनुदकमु- 287 10
त्तमः साहसदण्डः। भग्नोत्सृष्टकं मध्यमः ।।