पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५ प्रक.
227
एकाङ्गवघनिष्क्रय

 मृगद्रव्यवनान्मृगद्रव्यापहारे शत्यो दण्डः । विम्वविहार 284 4
मृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्ड. ॥
 कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्ड ।
स्थूलकद्रव्यापहारे द्विशतः। कृषिद्रव्यापहारे च ॥
 दुर्गमकृतप्रवेशस्य प्रविशत. प्राकारच्छिद्राद्वा निक्षेपं गृही-
त्वाऽपसरतः कन्धरावधो[१] द्विशतो वा दण्डः ।।
 चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः त्रिशतो
वा दण्डः ॥
 कूटकाकण्यक्षाराळाशलाकाहस्तविषमकारिण एकहस्तवध.
श्चतुश्शतो वा दण्डः ॥
 स्तेनपरिदारिकयोस्साचिव्यकर्मणि स्त्रियास्सङ्गृहीतायाश्च
कर्णनासाच्छेदनं पञ्चशतो वा दण्डः पुंसो द्विगुणः ।।
 महापशुमेकं दासं दासीं वाऽपहरतः प्रेतमाण्डं वा
विक्रीणानस्य द्विपादवधः षट्छतो वा दण्डः ।।
 [२]वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने [३]राजयानवाह.
 नाद्यारोहणे चैकहस्तपादवधः सप्तशतो वा दण्डः ॥
 शूद्रस्य[४] ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो [५]राजद्विष्टमा 285 4

दिशतो [६]द्विनेत्रभेदिनश्च योगासनेनान्धत्वमष्टशतो वा दण्डः ||


  1. 1 काण्डरावधो.
  2. याश्य. II, 302-304.
  3. याश्य. II, 302-304.
  4. याश्य. II, 302-304.
  5. याश्य. II, 302-304.
  6. याश्य. II, 302-304.