पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
224
1४ आधि. ९ अध्या
कण्टदशोवनम्

280 4 मुण्डनमिष्टकाशकलेन प्रव्राजन वा । [१]आचतुष्पणमूल्यादिति

पत्रिंशत्पण ! आपञ्चपणमूल्यादिति अष्टचत्वारिंशत्पणः ।
आदशपणमूल्यादिति पूर्वस्साहसदण्ड ! आविंशतिपणमूल्या.
दिति द्विशतः । आत्रिंशत्पणमूल्यादिति पञ्चशतः । आचत्वा
रिंशत्पणमूल्यादिति साहस्रः । आपञ्चाशत्पणमूल्यादिति वधः ।
 प्रसह्य दिवा रात्रौ चाऽन्तर्याममेव हरतो[२]ऽर्धमूल्येष्वेत
एव द्विगुणा दण्डाः प्रसह्य दिवा रात्रौ वा सशस्त्रस्या-
पहरतश्चतुर्भागमूल्येष्वेत एव दण्डाः ॥
 कुटुम्बाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्यमो-
तमवधा दण्डाः ; यथाऽपराधं वा।
 धर्मस्थश्चेद्विवदमान पुरुषं तर्जयति, भत्संयत्यपसारयति,
अभिग्रसते वा, पूर्वमस्मै साहसदण्डं कुर्यात् । वाक्पारुष्ये
द्विगुणम् ।।
 पृच्छयं न पृच्छत्यपृच्छयं पृच्छति, पृष्ट्वा वा विसृजति.
शिक्षयति, स्मारयति, पूर्वं ददाति वेति, मध्यममस्मै साहसदण्डं
कुर्यात् । देयं देश न पृच्छति, अदेयं देशं पृच्छति कार्यमदेशे-
नातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तमपवाहयति,

281 6 :मार्गापणं[३] वाक्यमुत्क्रमयति; मत्तिसाहाय्यं[४] साक्षिभ्यो ददाति,

तारि[५] तानुशिष्ट कार्य पुनरपि गृह्णाति , उत्तममस्मै साहसदण्डं
कुर्यात् ॥

  1. 1 आचतुष्पणमूल्यादिति चत्वारिंशत्पण मुण्डनभिष्टकाशकलेन अबाजन च । आचतुष्पण,
  2. यामितमपहरतो, याममेवापहरतो.
  3. मार्गापन ।
  4. 4 मतिसहाय,
  5. कारि.