पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४ प्रक.
223
सर्वाधिकरणरक्षणम्

 पण्यभूमिभ्यो वा राजपण्यं पाषमूल्यादूर्ध्वमापादमूल्यादि 279 6
त्यपहरतो द्वादशपणो दण्ड । आद्विपादमूल्यादिति चतु.
र्विशतिपणः । आत्रिपादमूल्यादिति षट्त्रिंशत्पणः । आप-
णमूल्यादित्यष्टचत्वारिंशत्पण । आद्विपणमूल्यादिति पूर्व
स्साहसदण्डः । आचतुष्पणमूल्यादिति मध्यमः। आष्टपण.
मूल्यादित्युत्तमः । आदशपणमूल्यादिति वधः ॥
 कोष्टपण्यकुल्या[१]युधागारेभ्य. कुष्यभाण्डोपस्करापहारेष्वर्ध-
मूल्येष्वेत एव दण्डाः ॥
 कोशभाण्डागाराक्षशाला[२]भ्यश्चतुर्भागमूल्येष्वेत एव द्विगुणा
 चोराणामभिप्रघर्षणे चित्रो घात इति राजपरिगृहेषु[३] व्या-
ख्यातम् ।।
 बाह्येषु तु प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्ड-
मुपस्करं वा माषमूल्यादूर्ध्वमापादमूल्यादित्यपहरतस्त्रिपणो द-
ण्डः ; गोमयप्रदेहेन वा प्रलिप्यावघोषणं[४] शराब मेखलया
वा। आपणमूल्यादिति द्वादशपणः; मुण्डनं प्रव्राजनं वा ।
आद्विपणमूल्यत्रिपादमूल्यादिति नवपणा; गोमयं भस्म वा
प्रलिप्यावघोषणं शरावमेखलया वा। अपणमूल्यादिति द्वादशप- 280 4

[५]मुण्डनं प्रव्राजनं वा आद्विपणमूल्यादिति चतुर्विंशतिपणः,


  1. । कुप्या
  2. राक्षशाला,
  3. ग्रहेषु
  4. 1 आद्विपादमूल्यादिति षट्पण । गोमयभस्मना वा प्रलिप्यावधोषणम् 1 आधि-
    पादमाल्यादिति नवपण । मोमयभस्मना वा प्रलिप्यावघोषणम् । शराव,
  5. चतुर्विंशतियण ।