पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
218
[४ अघि ७ अध्या.
कण्टकशोधनम्

274.2  सम्भग्नस्फुटितगात्रं वि[१]क्षिप्त विद्यात् ।।

 श्यावपाणिपाददन्तनख शिथिलमांसरोमचर्माणं फेनोप
दिग्धमुखं विषहतं विद्यात् ॥
 तमेव सशोणितदंशं सर्पकीटहत विद्यात् ।।
 विक्षिप्तवस्त्रगात्रमनिवांतविरिक्त मदनयोगहतं विद्यात् ।।
 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयादुद्वन्ध-
निकृत्तकण्ठं विद्यात् ॥
 विषहतस्य भोजनशेष पयोभिः[२] परीक्षेत । हृदयादुद्धृ
त्याग्नौ प्रक्षिप्तं चिटचिटायदिन्द्रधनुर्वर्ण वा विषयुक्तं
विद्यात् ॥
 दग्धस्य हृदयमदग्धं दृष्ट्वा वा तस्य परिचारकजनं वा
दण्डपारुष्यादतिमा[३]र्गेत !
 दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं दायनिवृत्तिस्त्रीजनाभि-
मन्तार वा बन्धुम् । तदेव हतोद्वन्धस्य परीक्षेत ॥
 स्वयमुगन्धस्य वा विप्रकारमयुक्त मार्गेत ॥

2752  सर्वेषां वा स्त्रीदायाद्यदोष', कर्मस्पर्श प्रतिपक्षद्वेषः पण्यसंस्था[४]-

समवायो वा विवादपदानामन्यतमद्वा रोषस्थानं , रोषनि-
मित्तो घातः[५]

  1. मानमव.
  2. वयोभि,
  3. पाहण्यातिलब्ध मा.
  4. संस्थ,
  5. निमित्तीपघात,