पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१ प्रक]
215
नावारूपकर्माभिग्रह

विक्रेतार जातवैराग्यं हीनकर्मजातिं विगूहमानरूपं लिङ्गेन
आलिङ्गिनं लिङ्गिनं वा भिन्नाचारपूर्वकृतापदानं स्वकर्मभिरपदिष्टं
नागरिकं महामात्रदर्शने गूहमानमपसरन्तमनुच्छासोपवेशिनमा
विग्नं शुष्कभिन्न स्वरमुखवर्ण शस्त्रहस्त[१] मनुष्यसम्पातं त्रासिनं[२]
हिंसस्तेनानीधीनेक्षपापहारप्रयागगूढाजीविनामन्यतमं शङ्केतेति
शङ्काभिग्रहः ।।
 रूपाभिग्रहस्तु-नष्टापहृतमविद्यमान तज्जातव्यवहारिषु निवे 270 3
दयेत् । तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः, साचिव्यकरदोष-
माप्नुयुः। अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन् । न
चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रय वा
कुर्युः । तञ्चोन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत्
"कुतस्ते लब्धम्" इति । स चेत् ब्रूयात् दायाद्यादवा
प्तममुष्माल्लब्ध, क्रीतं करितमाधिपच्छन्नं अयमस्य देशः
कालश्चोपसम्प्राप्तः । अयमस्यार्घः प्रमाण क्षण[३] मूल्यं च इति,
तस्यागमसमाधौ मुच्येत ॥
 नाष्टिकश्चेत्तदेव प्रतिसन्दध्यात् । यस्य[४] पूर्वो दीर्धश्च 2712
परिभोगश्शुचिर्वा देशस्तस्य द्रव्यामिति विद्यात् । “चतुष्पदा-
नामपि[५] हि रूपलिङ्गसामान्यं भवति, किमङ्ग पुनरेकयोनि-
द्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानाम् ॥ इति । स चेद्बू-

यात्-“याचितकमवक्रीतकमाहितकं निक्षेपमुपनिधिं वैय्या-


  1. 1 हस्त,
  2. सम्पातत्रासिन
  3. क्षणं.
  4. 4 तस्व,
  5. दद्रिपदानामपि,