पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
214
४ अधि. ५ अध्या
कण्टकशोधनम्

268 6  पुराणचाोरगोपालकव्याधश्वगणिनश्व वनचोराटविकाननुप्र-

विष्टाः प्रभूतकूटहिरण्यकुष्यमाण्डषु सार्थवजग्रामेष्वेनान-
भियोजयेयुः, अभियोगे गूढबलघातयेयु, मदनरसयुक्तेन वा
पथ्यादानेन[१] अनुगृहीतलोप्तृभारानायतगतपरिश्रान्तान्प्रस्वपतः
प्रहवणेषु योगसुरामत्तान्वा ग्राहयेयुः !!
 पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् ।
 सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ।

इति कण्टकशोधने सिद्धव्यञ्जनैर्माणवप्रकाशन
पञ्चमोऽध्याय आदितो द्वयशीति.



८१ प्रक. शङ्कारूपकर्माभिग्रहः



 सिद्धप्रयोगादूर्ध्वं शङ्कारूपकर्माभिग्रहः क्षीणदायकुटुम्बमल्प-

269 4 निर्वेशं विपरीतदेशजातिगोत्रनामकर्मापदेशं प्रच्छन्नतिकर्माण

मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तमतिव्ययक
र्तारं पुंश्चलीधृत्तशौण्डिकेषु प्रसक्तमभीक्ष्णप्रवासिनमविज्ञातस्था-
नगमनपण्यमेकान्तारण्य निष्कुटविकालचारिणं प्रच्छन्ने सामिषे
वा देशे बहुमन्त्रसन्निपातं सद्य क्षतव्रणानां गूढप्रतीकार-
यितारं अन्तर्गृहं नि[२]त्यमभ्यधिगन्तारं कान्तापर परपरिग्रहाणां
परस्त्रीद्रव्यवेश्मनामभीक्ष्णप्रष्टारं कुत्सितकर्मशास्त्रोपकरणसंसर्ग
विरात्रे छन्नकुड्यच्छायासञ्चारिणं विरूपद्रव्याणामेदशकाल

  1. पुण्यादनेन.
  2. अन्तर्गृहनिल्ल.