पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
210
[४ अधि. ४ अध्या
कण्टकशाधनम्

264 6 वोपसर्पान् हन्युः । अथर्ववेदविदो वाभिचरेयुः । पर्वसु नाग

 पूजाः कारयेत् । तेनोदकपाणिभयप्रतीकारा व्याख्याताः ।
 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि
 कुर्युः । पर्वसु च विर्त्तीदछत्रोल्लोषिकाहस्तपताकाच्छागोपहारै
 चैत्यपूजा कारयेत् ।
 [१]वश्वराम" इत्येवं सर्वे[२] भयेष्वहोरात्रं चरेयुः ।
 सर्वत्र चोपहतान् पितेवानुगृह्णीयात् ।
 मायायोगविदस्तस्माद्विषये सिद्धतापसाः ।
 वसेयुः पूजिता राज्ञा[३] दैवापत्प्रतिकारिण' ।

इति कण्टकशोधने उपनिपातप्रतीकार तृतीयोध्याय
आदितोऽशीतितम



'७९ प्रक. गूढाजीविनां रक्षा.



 समाहर्तृप्रणिधौ जनपदरक्षणमुक्तम् । तस्य कण्टकशोधनं
 वक्ष्याम:----
 समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्रचरचारणकुहक
 प्रच्छन्दककाान्तिकनैमित्तिकमौहूर्तिकचिकित्सकोन्मत्तमूकब-

265 3 : घिरजडान्धवैदेहककारूशील्पकुशीलववेशशौण्डिकापूपिकपाक

 मासिकौदनिकव्यञ्जनान् प्रणिदध्यात् । ते ग्रामाणामध्यक्षाणां

  1. 1 चर वश्च
  2. सर्वभ.
  3. राज्ञ्ः,