पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
204
[४ अधि. २ अध्या,
यण्टकशोधनम्

253 2  कुशीलवैश्चारणादिभि[१] क्षुकाश्च व्याख्याता । नेपामयश्शू.

लेन यावत पणानभिदेवु[२] तावन्त शिफाप्रहारा दण्डाः !!
शेषाणां कर्मणां[३] निष्पत्तिवेतनं शिल्पिनां कल्पयेत् ।।
 एव चोरानचोराख्यान् वणिक्कारुकुशीलवान् ।
 भिक्षुकान् कुहकांश्चान्यान्वारयेद्देशपीडनात् ॥
इति कण्टकशोधने चतुर्थाधिकरणे कारुकरक्षणं प्रथमोऽध्याय

आदितोऽष्टसप्ततिरध्याय .



७७ प्रक. वैदेहकरक्षणम्.



 संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणवि-
शुद्धानामाधानं विक्रयं वा स्थापयेत् ॥
 तुलामानभाण्डानि चावेक्षेत, पौतवापचारात् ।
 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तमदोषः, पलहीनाति-
रिक्ते द्वादशपणो दण्ड । तेन पलोत्तरा दण्डवृद्धिार्ख्याता।

258 10  तुलाया' कर्षहीनातिरिक्तमदोषः। द्विकर्षहीनातिरिक्ते

षट्पणो दण्डः । तेन कर्पोत्तरा दण्डवृद्धिव्याख्याता ।


  1. 1 रणाभि.
  2. भिवदेयुः,
  3. कर्मणां.