पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६ प्रक.]
203
कारुकरक्षणम्

 रूपदर्शकस्य स्थिता पणयात्रामकोप्यां कोपयतः को- 256.4
प्यामकोपयतो द्वादशपणो दण्डः । तेनोत्तरं व्याख्यातम् ।
कूटरूपं कारयत प्रतिगृह्णतो निर्यापयतो वा सहस्त्रं दण्डः।
कोशे प्रक्षिपतो वधः[१]
 झरक[२] पांसुधावकाः सारत्रिभागं लभेरन् । द्वौ राजा
रत्नं च। रत्नापहार उत्तमो दण्डः ॥
 खनिरत्ननिधिनिवेदनेषु षष्टमंशं निवेत्ता लभते । द्वाद-
शमंशं भृ नकः । शतसहस्त्रादूर्ध्व राजगामी निधिः । ऊने
षष्टमंशं दद्यात् ।।
 पौर्वापो[३] रूषिकं निधि जानपदः शुचिस्स्वकरणेन समग्रं
लभेत । स्वकरणाभावे पञ्चशतो दण्डः । प्रच्छन्नादाने
सहस्रम् ॥
 भिषजः प्राणावाधिकमनाख्यायोपक्रममाणस्य विपत्तौ पू.
वस्साहसदण्डः । कर्मापरोधेन[४] विपत्तौ मध्यमः । कर्मव[५] धवै-
गुण्यकरणे दण्डपारुष्यं विद्यात् ॥
 कुशीलवा वर्षा रात्रमेकस्था वसेयुः । कामदानमतिमात्र- 257.6
मेकस्यातिपातं[६] च वर्जयेयुः । तस्यातिक्रमे द्वादशगुणो दण्डः ।

कामं देशजातिगोत्रचरणमैथुनावभासेन नर्मयेयुः ।।



  1. 1'म' कोशात्समुद्भतम् .
  2. 2 रघरक. अधरक
  3. 3 पौर्व.
  4. 4 राधेन,
  5. 5 मर्म,
  6. 6पाद,