पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
202
[ अधि. १ अध्या
कण्टकशोधनम्

2552 श्रद्धेया रागविवादेषु वेतन कुशलाः कल्पयेयुः ॥

 परार्थ्यानां पणो वेतनं ; मध्यमानामर्धपणः प्रत्यवराणां
पाद'; स्थूलकानां माषद्विमाषकम् | द्विगुणं रक्तकानाम् ।
प्रथमनेजने चतुर्भागः क्षयः। द्वितीये पञ्चभागः । तेनो
त्तरं व्याख्यातम् ।
 रजकैस्तन्तुवाया व्याख्याता !
 सुवर्णकाराणामशुचिहस्ताद्रूप्यं सुवर्णमानाख्याय सरूपं
क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्विंशतिपणः ।
चोरहस्तादष्टचत्वारिंशत्पणः । प्रच्छन्नविरूपं मूल्यहीनक्रयेषु
स्तेयदण्डः । कृतभाण्डोपधौ च । सुवर्णान्माषकमपहरतो
द्विशतो दण्ड । रुप्यधरणान्माषकमपहरतो द्वादशपणः ।
तेनोत्तरं व्याख्यातम् । वर्णोत्कर्षमपसाराणां योगं वा सा-
धयतः पञ्चशतो दण्डः । तयोरपचरणे रागस्यापहारं वि
द्यात् । माषको वेतनं रूप्यधरणस्य । सुवर्णस्याष्टभागः ।
शिक्षाविशेषेण द्विगुणा वेतनवृद्धिः । तेनोत्तरं व्याख्यातम् ।

2563: ताम्रवृतकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम् ।

ताम्रपिण्डो दशभागः क्षयः । पलहीने हीनद्विगुणो दण्डः ।
तेनोत्तरं व्याख्यातम् ।
 सीसत्रषुपिण्डो विशतिभाग. क्षयः । काकणी चास्य
पलवेतनम् । तेनोत्तरं व्याख्यातम् ।