"द्यूताभियोगे जेतुः पूर्वस्साहसदण्डः । पराजितस्य मध्य-
मः। बालिशजातीयो ह्येष जेतुकाम पराजयं न क्षमते" इत्या
चार्याः । 'न' इति कौटि[१]ल्यः-पराजितश्च[२] द्विगुणदण्डः
क्रियेत, न कश्चन राजानमभिसरिष्यति । प्रायशो हि कितवाः
कूटदेविन ; तेषामध्यक्षाः शुद्धाः काकण्यक्षांश्च स्थापयेयु ।
काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः ।
कूटकर्मणि पूर्वस्साहसदण्डः, जितप्रत्यादानमुपधास्तेयदण्डश्च।
जितद्रव्यादध्यक्ष पञ्चकं शतमाददीत, काकण्यक्षारलाश-
लाकावक्रयमुदकभूमिकर्मक्रयं च । द्रव्याणामाधानं विक्रयं च
कुर्यात् ।
अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्ड[३] ।
तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्यादिति।
प्रकीर्णक तु याचितकावक्रीत[४] काहितकनिक्षेपकाणां यथादे-
शकालमदाने यामच्छायासमुपवेशसंस्थितीनां वा देशकालाति-
पातने गुल्यत[५]रदेयं ब्राह्मणं साधयतः प्रतिवेशानुप्रवेशयोरुपरि
निमन्त्रणे च द्वादशपणो दण्डः ।
[६]सन्दिष्टमर्थमप्रयच्छतो, भ्रातृभार्या हस्तेन लङ्घयतो, रूपा-
जीवामन्योपरुद्धा गच्छत , परवक्तव्यं पण्यं क्रीणानस्य,
समुद्रं गृहमुद्भिन्दत ; सामन्तचत्वारिंशत्कुल्याबाधामातर[७]तश्चा-
ष्टचत्वारिंशत्पणो दण्डः ।