पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
194
[३ अधि, १९ अध्या.
धर्मस्थीयम्

 प्रकृत्यो[१]पवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तरा दण्डाः । पूर्वेणापरस्य द्विपणाघराः । कुब्रा ह्मणदिभिश्च कुत्सायाम् ।
 तेन श्रुतोपवाद , वाग्जीवनानां कारुकुशीलवानां वृत्त्युप वादः; मातणक[२] गान्धारादीनां च जनपदोपवादा व्याख्याता।
 यः पर “एवं त्वां करिष्यामि " इति करणेनाभिभत्र्सये दकरणे, यस्तस्य करणे दण्ड ततोडर्धदण्ड दद्यात ।
 अशक्त कोपं मदं मोहं वाऽपदिशेत्, द्वादशपणं द[३]द्यात् ।
 जातवैराशय शक्तश्चापकर्तुं यावज्जीविका[४]वस्थं दद्यात् ।

स्वदेशग्रामयोः पूर्व मध्यम जातिसङ्घयो ।
आक्रोशाद्देवचैत्यानां उत्तमं दण्डमर्हति ॥

इति धर्मस्थीये वाक्पारुण्य अष्टादशोऽध्यायः

आदित पञ्चसप्तति.


७३ प्रक, दण्डपारुष्यम्.


दण्डपारुष्यं स्पर्शनमवपूर्णं प्रहत्तमिति[५]

नाभेरध. कायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतस्त्रिपणो दण्ड.।



  1. त्यु,
  2. प्राणक
  3. दण्ड.
  4. ता
  5. तस्योपर्दिष्ट ऋविध्य हीनमध्योत्तमकमात् । अपगृरणशङ्कपातनक्षतदर्शने ॥' इति विज्ञानेश्वरीये नारद