पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
192
आंध. १७ अध्या
धर्मस्यीयम्

 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः" इति मानवा।
 " मूल्यद्विगुणः" इत्यौशनसाः।
 " यथापराधः" इति कौटि[१]ल्य' ।
 "पुष्पफलशाकमूलकन्दपकान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्र-कद्रव्याणां हादशपणावरश्चतुर्विंशतिपणपरो[२] दण्ड ।
 कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुवाटादीनां स्थूलकद्रव्याणां चतुर्विशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः ।
 ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलद्रव्याणां अष्टच- त्वारिंशत्पणावर षण्णवतिपरं पूर्वस्साहसदण्डः ।
 महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्र व्याणां द्विशतावरः पञ्चशतपरः मध्यमस्साहसदण्डः ।
 स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो वन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहस दण्डः" इत्यचार्याः।
 यस्साहसं प्रतिपत्तेति कारयति स गुणं[३] दद्यात् । 'याव द्धिरण्यमुपयोक्ष्यते तावदास्यामि' इति स चतुर्गुणं दण्डं दद्यात् ।
 ‘य एतावद्धिरण्यं दास्यामि' इति प्रमाणमुद्दिश्य कारयति यथोक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।
 स चेत्कोपं मदं मोहं वाऽपदिशेत्, यथोक्तवद्दण्डमेनं कुर्या-

दिति कौटि[४]ल्यः ।



  1. पटा.
  2. द्विगुण.