पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
186
[३ आधि १४ अध्या.
धर्मस्थीयम्

 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रमतो द्वादशपणो दण्डः । न च प्राकाम्यमपक्रमणे ।।
 चोर त्वभयपूर्व[१] कर्मणः प्रत्यंशेन ग्राहयेद्दद्यात् प्रत्यं- शमभय च । पुनस्स्तेये प्रवासनमन्यत्र गमन च । महापराधे तु दूष्यवदाचरेत् ।
 याजकाः त्वप्रचारद्रव्यवर्जं यथासंम्भाषितं वेतनं समं वा विभजेरन् । अनिष्टोमादिषु च ऋतुषु दीक्षणार्ध्वं याजक- स्सन्नः पञ्चममंशं लभेत॥
 सोमविक्रयादूर्ध्वं चतुर्थमंशम् ॥
 मध्यमोपसद प्रवर्ग्योद्वासनादूर्ध्वं द्वितीयमंशम्[२]
 मयादूर्ध्वमर्धमंशम् ।
 सुत्ये प्रातस्सवनादूर्ध्वं पादोनमंशम् ।
 मध्यन्दिनात् सावनादूर्ध्वं समग्रमंशं लभेत । नीता हि द- क्षिणा भवन्ति ।
 बृहस्पतिसवनव[३]र्ज प्रतिसवनं हि दक्षिणा दीयते । तेना- हर्गणदक्षिणा व्याख्याताः।
 सन्नानामादशाहोरात्राच्छेषभृताः कर्म कुर्युः । अन्ये वा स्वप्रत्ययाः।
 कर्मण्यसमाते तु यजमानस्सीदेत् , ऋत्विज. कर्म समापय्य

१पूर्व २ लभेत ३ ववर्ज



  1. पूर्व.
  2. लभेत.
  3. बवर्ज,