पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६ प्रक
185
समयसमुत्थानम्

 "मर्ता वा कारयन्नान्यस्त्वया कारयितव्यो मया वा 2344 नान्यस्य कर्तव्यम्" इत्यपरे[१]
 भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः ।
कर्मनिष्ठापने भतुरन्यत्र गृहीतवेतनो नासकामः कुयोत् ॥
 "उपस्थितमकारयत कृतमेव विद्यात" इत्याचार्या ॥
 "न इति कौटि[२] ल्य' । कृतस्य वेतनं, नाकृतस्यास्ति । स चेदल्पमापि कारयित्वा न[३] कारयेत् । कृतमेव अस्य वि द्यात् । देशकालातिपातनेन कर्मणामन्यथा करणे वा न[४] सकामः कृतमनुमन्येत । सम्भाषितादधिकक्रियायां प्रयासा-[५] न्मोघं कुर्यात् ॥
 तेन सङ्घभृता व्याख्याताः । तेषामाधिस्सप्तरात्रमासीत । ततोऽन्यमुपस्थापयेत् । कर्मनिष्पाकं च । न चानिवेद्य भर्तुस्स- ङ्घः किञ्चित्परिहरेत् , अपनयेद्वा । तस्यातिक्रमे चतुर्विंशति- पणो दण्ड । सङ्घेन परिहृतस्यार्धदण्डः ॥
 इति भृतकाधिकारः ॥
 सङ्घभृतास्सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन् ॥
 कर्षकवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दध्युः । पुरुषोपस्थाने समग्रमंशं दध्य़ुः । संसिद्धे तु धृत[६] "पण्ये सन्नस्य तदानीमेव प्रत्यंशं दध्युः । सामान्या हि पथि सिद्धिश्चासिद्धिश्च ॥

१इत्यविरोधे भर्तृरकारयतो २ ट ३ नास्ति ४ नास्र ५प्रयास ६तूदधृत



  1. इत्यविरोधे भर्तुरकारयतो.
  2. नास्ति.
  3. नास.
  4. प्रयास
  5. तूध्रुत