पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
182
[३ अधि. १३ अध्या.
धर्मस्थीयन

 अथ वाऽऽर्यमाधाय कुलबन्धनतूर्याणामापदि निष्क्रयं चाधिगम्य बालं साहाययदातारं वा पूर्वं निष्क्रीणीरन् ॥
 सकृदात्माधाता निष्पतितः सीदेत् । द्विरन्येनाहितकः । सकृदुभौ परविषयाभिमुखौ ॥
 वित्तापहारिणो वा दासस्यार्यभावमपहरतोऽर्धदण्डः । निष्प तितप्रेतव्यसनिनामाधाता मूल्यं भजेत ।।
 प्रेतविण्मूत्रोच्छिष्टग्राहिणा[१]माहितस्य नग्नस्तापनं दण्डप्रेषण मतिक्रमणं च स्त्रीणां मूल्यनाशकरम् । धात्रीपरिचारिकार्ध- सौतिकोपचारिकाणां च मोक्षकरम्। सिद्धमुपचारकस्याभिप्रजा. तस्य अपक्रमणम् ॥
 धात्रीमाहितिकां वाकामां स्वरशामधिगच्छतः पूर्वस्साहस दण्डः । परवशां मध्यमः । कन्यामाहितकां वा स्वयमन्येन वा दूषयतः मूल्यनाश शुल्कं तद्विगुणश्च दण्डः ॥
 आत्मविक्रयिणः प्रजामार्यां विद्यात् ॥
 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम् ॥
 मूल्येन चार्यत्वं गच्छेत् ॥
 तेनोदरदासाहितकौ व्याख्यातौ ॥
 प्रक्षेपानुरूपश्चास्य निष्क्रयः । दण्डप्रणीतः कर्मणा दण्ड- मुपनयेत् ।।

१ग्राहणमा



  1. पाहणमा.