"साक्षिवालिश्येष्वेव पृथगनुपयोगे देशकालकार्याणां पूर्व
मध्यमोत्तमा दण्डा" इत्यौशनसाः।
"कूटसाक्षिणो यमर्थभूतं वा नाशयेयुस्तद्दशगुणं दण्डं[१]
दध्युरिति" मानवाः ।
"बालिश्याद्वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः।
"न" इति कौटि[२]ल्य । ध्रुवं हि साक्षिभिश्श्रोतव्यम् । अशृ-
ष्वतां चतुर्विंशतिपणो दण्डः ततोऽर्धमध्रुवाणाम्[३] ।
देशकालाविदूरस्थान साक्षिण, प्रतिपादयेत् ।
दूरस्थानप्रसारान्वा स्वामिवाक्येन साधयेत् ॥
इति धर्मस्थीये ऋणादानं एकादशोऽध्याय'
आदितोऽष्टषष्ठितम .
६४ प्रक. औपनिधिकम्.
उपनिधिः ऋणेन व्याख्यातः । परचक्राटविकाभ्यां दुर्गरा- ष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्ते नाशे वा, ग्राममध्याग्नयुदकाबाधे वा किञ्चिदमोक्षयमाणे कुप्य- 226 2 मनिहार्यवर्जमेकदेशमुक्तद्रव्ये वा, ज्वालावेगोपरुद्धे वा, नावि
निमग्नायां मुषितायां स्वयमुपरूढो नोपनिधिमभ्याभवेत् ॥