पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
176
[आधि ११ अध्या
धर्मस्थीयम

 पुरुषाश्चान्यत्र स्ववर्गेभ्यः । पारुष्यस्तेयसङ्गहणेषु तु वैरिस्या- लसहायवर्जा । रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उप द्रष्टा वा साक्षी स्यात् राजतापसवर्जम् ।
 स्वामिनो भृत्यानामृत्विगाचार्याश्शिष्याणां मातापितरौ पु. त्राणा चानिग्रहण[१]साक्ष्य कुर्युः तेषामितरे वा । परस्पराभि- योगे चौपामुत्तमा । परोक्ता दशबन्ध[२] दधुरवीराः पञ्चबन्धम् । इति साक्ष्यधिकारः।
 ब्राह्मणोदकुम्भाग्निसकाशे साक्षिण. परिगृह्णीयात् । तत्र ब्राह्मणं ब्रूयात्--" सत्यं ब्रूहीति" राजन्य, वैश्य, वा-"मा तवेष्टापूर्तफलं कपालहस्तशत्रुबलं भित्वार्थी गच्छे" रिति । शूद्रजन्म-"मरणान्तरे यद्वःपुण्यफलं तद्राजानं गच्छेत् । राज- श्च किल्बिष युष्मान्, अन्यथावादे दण्डश्चानुबन्धः । पश्चादपि ज्ञायेत यथादृष्टश्रुतम् ।
 एकमन्त्रात्सत्यमवहरतेति" अनवहरतां सप्तरात्रादूर्ध्वं द्वाद- शपणो दण्डः। त्रिपक्षादूर्ध्वमभियोग दध्युः ।
 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयु । तद्वा द्रव्यं राजा हरेत् । साक्षिणश्चेदभि- योगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्घं दद्यात् । अतिरिक्त वा ब्रूयुस्तदिरिक्तं राजा हरेत् । वालिश्यादभियोक्तु, दुश्श्रुतं

दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् । .



  1. चानिग्रहेण.
  2. बन्धन,