पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
174
अधि. ११ अमा
बर्मम्थीयम्

६३. ऋणादानम्.


 सपादपणा धर्म्या मासवृद्धिः पणशतस्य ।
 पञ्चपणा व्यावहारिकी ।
 दशपणा[१] 'कान्तारकाणां ।
 विंशतिपणा सामुद्राणां । तत' पर कर्तुः कारयितुश्च पूर्व- स्साहसदण्डः । श्रोतृणामेकैकं प्रत्यर्धदण्डः ।
 राजन्ययोग[२]क्षेमवहे तु धनिकधारणिकयोश्चरित्रमपेक्षेत ।
धान्यवृद्धिस्सस्यनिष्पत्तावृपार्धावरं मूल्यकृता वर्धेन । प्रक्षेपवृ- द्धिरुदयादर्धं सन्निधानसन्ना वार्षिकी देया । चिरप्रवास स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात् ! अकृत्वा वृद्धिं साधयतो[३] वा मूल्यं का वृद्धिमारोप्य श्रावयतो बन्धचतुर्गुणो दण्ड । तुच्छचतुरश्रावणायामभृतचतुर्गुणः । तस्य त्रिभागमादाता[४] दद्यात् । शेषं प्रदाता।
 दीर्घसत्रव्याधिगुरुकुलोपरुद्ध वालमसारं वा नर्णम[५] नुवर्धेत । मुच्यमानमृणमप्रतिगृह्णतो द्वादशपणो दण्डः । कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् । दशवर्षोपेक्षितमृणमप्रतिग्राह्यमन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः ।
 प्रेतस्य पुत्राः कुसीदं दधुः। दायादा वा रिक्थहरास्सहग्रा

हिणः प्रतिभुवो वा। न प्रातिभाव्यनन्यदसारं बालपातिभा-



  1. याज्ञपवल्क्य II, 38,
  2. न्यदण्ड.
  3. वर्धयतो वा.
  4. या.
  5. वर्णम.