पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२ प्रक.
173
समयस्यानपाकर्म

 पशवो रश्मिप्रतोदाभ्यां वारयितव्याः। तेषामन्यथा हिं. सायां दण्डपारुष्यदण्डा' । प्रार्थयमाना इष्टापराधा वा सर्वो- पायैर्नियन्तव्याः । इति क्षेत्रपथहिंसा।
 कर्षकस्य ग्राममभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।
कर्माकरणे कर्मवेतनाद्विगुणं हिरण्यदानं[१] प्रत्यंशद्विगुणं भक्ष्यपे- यदाने च प्रहवणेषु[२] द्विगुणमश दद्यात् ।
 प्रेक्षायामनंशदः स्वस्वजनो न प्रेक्षेत । प्रच्छन्नवणेक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणमशं दद्यात् ।
 सर्वहितमेकस्य ब्रुवत[३] कुर्युराज्ञाम्। अकरणे हादशपणो दण्डः।
 तं चेन्सम्भूय वा हन्यः, पृथगेषामपराधद्विगुणो दण्ड । उपहन्तृषु विशिष्टः ब्राह्मणतश्चैषां ज्येष्ट नियम्येत ।
 प्रहव[४] णेषु चैषा ब्राह्मणेनाकामः[५] कुर्यु । अशं च लभेरन् । तेन देशजातिकुलसङ्घानां समस्यानपाकर्म व्याख्यातं ।
 गजा देशहितान् सेतून् कुर्वना पथि सङ्क्रमात् ।
 ग्रामशोभाश्च रक्षाश्च तेषा प्रियहितं चरेत् ।

इति धर्मस्थीथे वास्तुके विधीतक्षेत्रपथहिसा दशमोऽध्याय

वास्तुकं समाप्तम्

समयस्यानपाकर्म च । आदितस्सप्तषष्टितमोऽध्याय




  1. दान,
  2. वहणषु.
  3. नस्व
  4. प्रवह
  5. मा..