पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथममुद्रणस्य उपोद्धातः इह तावद्विष्णुगुप्तचाणक्य इति च विख्यातोऽर्थशास्त्रप्रवीण: कौटिल्यो नाम ब्राह्मणः क्रिस्ताब्दारम्भात्पूर्व वत्सराणां चतुर्थे शतके लन्दवंशभुन्मूल्य चन्द्रगुप्तमभिषिषेचेति विष्णुपुराणात् ज्ञायते. - "महापद्म, तत्पुत्राश्चैकं वर्षशतमवनीपतयो भविष्यन्ति नवैव. सानन्दान्कौटिल्या ब्राह्मण समुद्धरिष्यति, नेषामभावे मौर्याश्च पृथिवी भोक्ष्यन्ति कौटिल्य एवं चन्द्रगुतं राज्योऽभिषेक्ष्यति तस्यापि पुत्रो बिन्दुसारो भविष्यति तस्थाप्यशोकवर्धन.” इति विष्णुपुराणे चलु- र्थाशे चतुर्विंशाध्यायें स्पष्टमभिहितं दृश्यते क्रिस्ताव्दारम्भात्पूर्व द्वासप्तत्यधिकशतद्वय परिमिते वर्षे समारू- ढराज्यसिंहासनेन चन्द्रगुतपौत्रेणाङ्गीकृत बौद्धविज्ञानेनाशोकवर्धनेन स- रतखण्डचक्रवर्तिना ये प्रत्युप्तवौद्धधर्माश्शिलास्तम्भा न्यखानिषत तेs- द्यापि दरीहश्यन्ते अशोकपितामहश्चन्द्रगुतोऽपि क्रिस्ताव्दारम्भात्पूर्व सप्तविंशत्यधिकशतत्र्यपरिमितेषु वर्षेषु राज्यं चकारेति पाश्चात्यरा- जचरित्रादपि वाढं ज्ञायते तस्यैतस्य चन्द्रगुप्तस्य सचिव कौटि- ल्यः प्राचीनाचार्यविरचितान्यर्थशास्त्राणि यैकमिदं षड्सहस्र- न्थपरिमितमर्थशास्त्र प्रणिनायेत्येतस्मादेवार्थशास्त्रादिव दण्डिविरचि ताइशकुमारचरितादपि स्पष्टमाकल्यते- "अधीष्व तावद्दण्डनीतिम् इयमिदानीमाचार्यविष्णुगुप्तेन मौर्या बाई लोकसहस्त्रैस्साङ्केता सैवेयमधीय सम्यष्टयाना यथोक्त- कर्मक्षमेति" इति दशकुमारचरितेऽदम उच्छासे चन्द्रगुप्तोपदेशायै- वेदमर्थशास्त्रं कृतमिति दण्डिना विशदीकृतम्. एवं च- .प. ६ अर्थशास्त्रम् --