पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ प्रक]
17]
वास्नुकम्

पूर्वानुवृत्त धर्म सेतुमाधानं विक्रयं वा नयतो नाययतो वा मध्यमस्साहसदण्ड श्रोतृणामुत्तम अन्यत्र भग्नोसृष्टात् ।।
 स्वाम्यभावे ग्रामा पुण्यशीला बा प्रतिकुर्यु ॥
 एथिप्रमाणं दुर्गनिवेशे व्याख्यातं ।।
 क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्ड । महापशुपथं चतुर्विंशतिपणः । हस्तिक्षेत्रपथं चतुञ्चाशत्पणः । सेतुवनपथं षट्छतः । शमशानग्रामपथं द्विशतः । द्रोणमुखपथ पञ्चशतः । स्थानीय राष्ट्रविवीतपथं साहस्र । अतिकर्षणे चैषां दण्डचतुर्था दण्डाः । कर्षणे पूर्वोक्ता ।।
 क्षेत्रिकस्याक्षिपत. क्षेत्रमुपवासस्य वा त्यजतो बीजकाले द्वा. दशपणो दण्ड अन्यत्र दोषोपनिपाताविषयेभ्यः ॥
 करदा करदेष्वाधानं विक्रयं वा कुर्यः । ब्रह्मदेयिका[१] ब्रह्मदेषिकेषु[२] अन्यथा पूर्वस्साहसदण्डः ।
 करदस्य वाऽकरदग्राम प्रविशत ॥
 करदं तु प्रविशत. सर्वद्रव्येषु नाकाम्यं स्यात् अन्यत्रागा- रात् । तदप्यसमै दद्यात् ।।
 अनादेयमकृषतोऽन्यः पञ्चवर्षाणयुपभुज्य प्रयासनिष्क्रयेण दद्यात् । अकरदाः परत्र वसन्तो भोगनुपजीवेयुः ॥  ग्रामार्थेन ग्रामिकं व्रजन्तं[३] उपवासा पर्यायेणानुगच्छेयुर-

ननुग[४] च्छन्तु पणार्धपणिक योजनं दशुः ।।



  1. दायका.
  2. दयिकेषु,
  3. वसन्त.
  4. रनुग