पञ्चवर्षोपरतकर्मण सेतुबन्धस्य स्वाम्य लुप्येतान्यत्रारद्भयाः।
तटाक सेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिक परिहारः ।
भग्नोत्सृष्टाना चातुर्वर्षिकः।
समुपारूढानां त्रैवार्षिक।
स्थलस्य द्वैवर्षिक: स्वात्माधाने विक्रये च ।
वानम[१] वृत्तिमनन्दि[२] निवन्त्रायतननटाककेदारारामपण्डव
पानां सम्यपर्ण[३] भागोत्तरिकान्येभ्यो वा यथोपकारं दद्यु. ।
प्रक्रयावक्रयविभाग[४] भोगनिसृष्टोपभोक्तारश्चैषां प्रतिकुर्युः । अ-
प्रतीकारे हीनद्विगुणो दण्ड ॥}}
सेतुभ्यो मुञ्चतस्तोयमपारे षट्पणो दम ॥
पारे वा तोयमन्येषां प्रमादेनोपरुन्धतः ॥
इति धर्मस्थीये वास्तुके वास्तुविक्रय सीमाविवाद मर्यादास्थापनं वाधावाधिक नवमोऽध्याय.
आदितः षट्पष्ठितमोऽध्याय ॥
६१-६२. विवीतक्षेत्रपथहिंसा समयस्या-
नपाकर्म च.
कर्मोदकमार्गमुचितं रुन्धत कुर्वतोऽनुचितं वा पूर्वस्साहसदण्ड:॥
सेतुरूप[५] पुण्य स्थान चैत्यदेवायतनानि च परभूमौ निवेशयतः