पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
164
अथि. " आख्या ,
धर्मस्वीयम्

६० प्रक. पुत्रविभागः.


 "परपरिग्रहे वीजमुत्सृष्टं क्षेत्रिणः” इत्याचार्याः ।।
 "माता भस्त्रा यस्य रेतस्तस्यापत्यम्" इत्यपरे ॥
 "विद्यमानमुभयम्” इति कौटि[१]ल्यः ॥
 स्वयंजात कुतक्रियायामौरस । तेन तुल्यः पुत्रिकापुत्रः । सगोत्रेणान्यगोत्रण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः । जनः यितुरस सन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयो- रपि स्वधारिक्थभाग्भवति । तत्सधर्मा बन्धूनां गृहे गूढजात स्तु गूडजः । बन्धुनोत्सृष्टोऽपविद्ध' संस्कर्तुः पुत्रः। कन्या गर्भः कानीनः । सगर्भोढायात्सहोढ । पुनर्भूतायाः पौनर्भवः ॥
 स्वयंजात पितबन्धूनां च दायादः। परंजात[२]संस्कर्त रेव न बन्धूनाम् ॥
 तत्सधर्मा मातापितृभ्यामद्गिर्दतो[३] दत्तः। स्वयं बन्धुभि र्वा- पुत्रभावोपगत उपगतः । पुत्रत्वेऽधिकृतः कृतकः। परि क्रीतः क्रीत इति ॥
 औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः। असवर्णा ग्रासा- च्छादनभागिनः॥
 ब्राह्मणक्षत्रिययोरनन्तरापुत्रास्सवर्णा एकान्तरा असवर्णाः॥ ब्राह्मणस्य वैश्यायामम्बष्ठः । शूद्रायां निषादः पारशवो वा ॥

क्षत्रियस्य शूद्रायामुग्रः ॥



  1. परजात.
  2. मुक्तो .