पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
162
विअधि, ६ अध्या
धर्मस्थीयम्

तेषां च कृतदाराणां लुप्ते प्रजनने सति ।

सृजेयुः वान्धवाः पुत्रांस्तेषामंशं प्रकल्पयेत् ॥

इति धर्मस्थीये दायविभागे दायक्रम पञ्चमोऽध्याय

आदितो द्विषष्टितम.


६० प्रक. अंशविभागः,


 एकस्त्रीपुत्राणां ज्येष्टांश॥
ब्रह्मणानामजाः; क्षत्रियाणामश्वाः, वैश्यानां गाव ; शूद्रा- णामवय.॥
 काणलिङ्गास्तेषां मध्यमांशः। भिन्नवर्णाः कनिष्ठांशः । चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणामेक ज्येष्ठो हरेत् । प्रतिमुक्तस्वधापाशो हि भवति ॥
 इत्यौशनसो विभाग ॥
 पितुः परिवापाद्यानमाभरणं च ज्येष्ट[१] ; शयनासनं भुक्त- कांस्यं च मध्यमांशः; कृष्णं धान्यायस गृहपरिवापो गोशकटं च कनिष्ठांशः । शेष[२]द्रव्याणा मेन[३]व्यस्य वा समो विभागः॥ आदायादा भगिन्यः मातुः परिवापाद्भुक्तकांस्याभरणभा- गिन्यः ।
 मानुषहीनो ज्येष्ठस्तृतीयमंशं ज्येष्ठांशाल्लभेत । चतुर्थमना[४] यवृत्तिः, निवृत्तधर्मकार्यों वा कामाचारस्सर्वं जीयेत ।।

तेन मध्यमकनिष्ठौ व्याख्यातो॥



  1. ज्येष्ठाश
  2. शेषाणा
  3. मेक.
  4. मन्या