पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

156 धर्मस्थीयम् ३ अधि, ३ अध्या 1982 प्रतिषिद्धा स्त्री दर्पमधक्रीडायां त्रिपणं दण्डं दद्यात् ।। दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः ॥ पुरुषप्रेक्षाविहारगमने द्वादशपणः । रात्रौ द्विगुणः ।। सुप्तमत्ताप्रव्रजने भर्तुरादाने च द्वारस्य द्वादशपणः ॥ रात्रौ निष्कासने द्विगुणः ।। स्त्रीपुंसयोर्मैथुनार्थेनाङ्गीवचेष्टायां रहश्शील सम्भाषायां वा चतुर्विंशतिषणः स्त्रिया दण्ड.; पुंसो द्विगुणः ॥ केशनीवीदन्तनखावलम्बनेषु पूर्वस्साहसदण्डः; सो द्वि- गुणः ॥ शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः; स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तर पञ्चशिफा दद्यात् । पणिकं वा प्रहारं मोक्षयेत् ॥ इत्यतिचाराः ॥ प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्योपकारे क्षुद्रकद्रव्याणां द्वादश- 1991 पणो दण्डः; स्थूलकद्रव्याणां चतुर्विंशतिपणः; हिरण्यसुवर्ण- योश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः। पुंसो द्विगुणः ॥ त एवागम्ययोरर्धदण्डाः ॥ तथा प्रतिषिद्धपुरुषव्यवहारेषु च ।। इति प्रतिषेधः ॥ त रहोशील.