पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

141 अध्यक्षप्रचार [ अधि. ३६ अध्या. 1811 स तत्या स्त्री पुरुषाणा जातिगोत्रनामकर्मभि.जङ्घाग्रमाय- व्ययौ च विद्यात् । एवं दुर्गचतुर्भाग स्थानिकश्चिन्तयेत् । धर्मावसथिनः पापण्डिपथिकानावेद्य वासयेयुः । स्वप्रत्ययाश्च तपस्विनश्रोत्रियांश्च कारुशिल्पिनरस्त्वकर्मस्था- नेषु स्वजनं वासयेयुः। वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु पण्यानामदेश'कालविक्रेता. रमस्वकरणं च निवेदयेयु । शौण्डिकपाकमांसिकौदनिकरूपाजीवाः परिज्ञातमावासयेयुः । अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः । चिकित्सक प्रच्छन्नव्रणप्रतीकारकारयितारमपथ्यकारिणं च गृहस्वामी च निवेध (गोपस्था निवेद्य) गोपस्थानिकयोर्मुच्येता- न्यथा तुल्यदोषस्स्यात् । प्रस्थितागतौ च निवेदयेत् । अन्यथा रात्रिदोषं भजेत् । क्षेमरात्रिषु त्रिपर्णं दद्यात् । पथिकोत्पथिकाश्च बहिरन्तश्च नगरस्य देवगृहपुण्यस्थान- वनश्मशानेषु सव्रणमनिष्टोपकरणमुद्भाण्डीकृतमाविग्नमतिस्वप्नम- ध्वक्लान्तमपूर्वं वा गृह्णीयुः। 1893 एवमभ्यन्तरे शून्यनिवेशावशनशौण्डिकोदनिकपाकमांसिक द्यूतपाषण्डावासेषु विचयं कुर्युः । पिण्याना देश, नास्ति विचयं च.