पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

142 २अधि.३६ अध्या. 1761 गेन ग्रामाग्रं परिहारकमायुवीय धान्यपशुहिरण्यकुप्याविष्टि(कर) प्रतिकरमिदमेतावदिति निबन्धयेत् । तत्प्रदिष्टः पञ्चग्रामों दशग्रामीं वा गोपश्चिन्तयेत् । सीमावरोधेन ग्रामाग्रं कृष्टाकृष्टस्थलकेदारारामषण्डवाटवन वास्तु चैत्यदेवगृहसेतुबन्धश्मशानसत्रप्रपापुण्यस्थानविवीतपथिस - ङ्ख्यानेन क्षेत्राग्रं लेन सीम्नां क्षेत्राणां च मर्यादारण्य पथिप्रमा णसम्प्रदानविक्रयानुग्रहपरिहारनिबन्धान् कारयेत् । गृहाणां च करदाकरदसङ्ख्यानेन । तेषु चैनावच्चातुर्वर्ण्यमेतावन्न कर्षकगोरक्षकवैदेहककारुकर्मक- रदासाश्चैनावच्च द्विपदचतुष्पदमिदं चेष हिरण्यविष्टिशुल्कदण्ड', स्समुत्तिष्ठितीति । कलानां च स्त्रीपुरुषाणां वालवृद्धकर्मचरित्राजीवव्ययपरि- माणं विद्यात् । एवं च जनपदचतुर्भागं स्थानिक चिन्तयेत् । गोपस्थानिकस्थानेषु प्रदेष्टार कार्यकरणं बलिप्रग्रहं च कुर्युः। समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहिता- स्तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः। मानसञ्जाताभ्यां क्षेत्रा- णि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च । तेषां 179 7 जङ्घाग्रमायव्ययौ च विधु : प्रस्थितागतानां च प्रवासावास- कारणमनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः । कुंलाना. 1 भाण्ड.