पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ प्रक. सोऽध्यक्ष 128 परचकाटवीभायादनुभविष्टानां पशूनां पालनधर्मेण दशभाग 160 ! दद्युरिति भागानुप्रविष्टकम् । वत्सा वत्सतरा दम्या वहिनो उषा उक्षाणश्च पुङ्गवाः युग- वाहनशकटवहा वृषभास्मूना महिषा. पृष्टस्कन्धवाहिनश्च महिषाः वत्त्सिका वत्सतरी पटौही गर्भिणी धेनुश्चाप्रजाता बन्ध्याश्च गावो महिष्यश्च मानद्विमा नजातास्तासापना । वा वन्सि- काश्च मासद्विमासजातान'ङ्कयेत् । मासद्विमासपर्युषितमङ्कयेत् । अङ्कं चिह्न वर्ण शृङ्गान्तर व लक्षणमेवमुपजा निवन्धयेदिति ब्रजपर्यग्रम् । चोरह्रतमन्ययूथप्रविष्टमवलीनं वा नष्टम् । पङ्कविषमव्याधिजरातोयाधा रावसन्नं वृक्षतटकाष्ठशिलाभिह- तमीशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टं प्रमादादभ्याभवेयु । एवं रूपाग्रं विद्यात् । स्वयं हन्ता घात 'यिता हर्ता हारयिता च वध्यः । परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्व साहसदण्डं दद्यात् । स्वदेशीयानां चोरह्रतं प्रत्यानीय पणितं रूप हरेत् । परदेशीयानां मोक्षयिताऽर्धं हरेत् । बालवृद्धव्याधितानां गोपालका प्रतिकुर्युः ।। ता नायेत . ' हा. धाता, । रूपस्य एकैकम्य -- व्या. पणिकं. 1517 17