पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१ प्रक.) सीताध्यक्ष 116 - गृहीत्वा वेतनं कर्म अकुर्वन्याः अङ्गुष्ठसन्दंशनंदापयेत् । भक्षितापहृतावस्कन्दितानां च ।। वेतनेषु च कर्मकराणामपराधतो दण्डः । रज्जूवर्त कैश्च पूर्वाकारैश्च स्वयं संसृज्येत । भाण्डादीनि च वरत्रादीनि वर्तयेत् । सूत्रवल्कमयी रज्जू : वरत्रा वेत्र वैणवीः । सान्नाह्या बन्धनीयाश्च यानयुग्यस्य कारयेत् ॥ इत्यध्यक्षप्रचारे सूत्राध्यक्षस्त्रयोविंशोऽध्याय . आदितश्चतुश्चत्वारिंश. 1424 ४१ प्रक. सीताऽध्यक्षः सीताऽध्यक्षः कृषितन्त्रगुल्म 'वृक्षायुर्वेदज्ञस्तज्ज्ञसखो वा सर्व- 1426 धान्यपुष्पफलशाककन्दमूलपाल्लीक्यक्षौमकार्पासबीजानि यथा कालं गृह्णीयात् । बहुहलपरिकृष्टायां स्वभूमौ दामकर्मकरदण्डप्रतिकर्तृभिर्वापयेत् । कर्षणयन्त्रोपकरणबलीवर्दैश्चैषामसङ्गं कारयेत् । कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्वग्राहादिभिश्च । तेषां कर्मफलविनिपाते तत्फलहानं दण्डः। षोडशद्रोणं जाङ्गलानां वर्षप्रमाणमध्यर्धमान् पानां देशवा. 1 रज्जुवर्त, धर्मकारेश्च इति व्याख्याने च पाठ.. वैत्र. शुल्व. देशावापानामिति व्या. 5 वा. 6 सपै.