पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ प्रक. पण्याध्यक्षः 97 अर्धद्रोणं खरपृषतरोहितानाम् । 1175 आढकमेणकुरङ्गाणाम् । अर्धाढकमजैळकवराहाणां द्विगुण वा आकण्ठ 'कुण्डकम् । प्रस्थौदनश्शुनाम् । हंसक्रौञ्चमयूराणामर्धप्रस्थ । शेषाणामतो मृगपशुपक्षिव्याळानामेकभक्तादनुमानं ग्राहयेत् । अङ्गारान् तुषान् लोहकर्मान्तभित्तिलेप्यानां हार येत् । कणिकाः दासकर्मकरस्पकराणामतोऽन्यदौदनिकापूपिकेभ्यः प्रयच्छेत् । तुलामानभाण्डं रोचनीदृषन्मुसलोलूखलकुट्टकरोचकयन्त्रपत्र- कशूर्पचालनि काकण्डोळीपिटकसंमार्जन्यश्चोपकरणानि । मार्जकरक्षकपरकमायकमापकदायकदापकालाकाप्रतिग्राहक- दासकर्मकरवर्गश्च विष्टिः ॥ उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । मृत्काष्ठकोष्टा स्नेहस्य पृथिवी लवणस्य च ।। इत्यध्यक्षप्रचारे काष्ठागाराध्यक्षः पञ्चदशोऽध्यायः. आदितष्षट्त्रिंशः ३४. प्रक, पण्याध्यक्षः. पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथ- 118 4. वारिपथोफ्यातानां सारफल्ग्वर्घान्तर पियापियतां च विद्यात् । । कण. - लेख्यानाहार. कर्णिका. नी. कौष्ठ. 13