पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
88
२ अधि. १ : अध्यक्ष
अध्यक्षप्रचार


म्रापादयुक्त रूप्यं रूप्यपादयुक्तं वा मुवर्ण संस्कृत तस्माद्रक्षेत् ॥
 पृषित काचकर्मणः त्रयो हि भागा परिभाण्डं द्वौ वास्तुक; चत्वारो वा वास्तुकं त्रय परिभाण्डम् ।।
 त्वष्टृकर्मणः शुल्वभाण्डं समसुवर्णेन संयूहयेत् । रूप्यभाण्ड धनं घनसुपिर वा सुवर्णार्धेन अवलेपयेत् । चतुर्भागसुवर्ण वा वालुकाहिङ्गुळकस्य रसेन चूर्णेन वा वासयेत् ।।
 तपनीयं ज्येष्ठ सुवर्ण शुरागं समसीसातिक्रान्त पाकपत्रपकं सैन्धीवकयोज्जालितम् नौलपीत श्वेतहरितशुककपोतवर्णा नां प्रकृतिर्भवति ॥
 तीक्ष्णं चास्य 'मयूरग्रीवाभं श्वेतभङ्ग चिमिचिमायतितं पीतपूर्णित' काकणिकस्सुवर्णरागः" ।।
 तारमुपशुद्ध वा अस्थितुत्थे चतुस्समसीसे चतुश्शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्वि. एव सप्तदसृतुत्थातिकान्तं सैन्धवि. कयोज्जालितम् । एतस्मात्काकण्युत्तरं आहिमाषादिति सुव. र्णे देयं पश्चाद्रागयोगः श्वेततार भवति ।।
 त्रयोऽशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारमूर्छितास्स श्वेत- लोहितकं भवति । ताम्रं पातकं करोति " ||
 तपनीयमुज्जाल्य रागत्रिभागं दद्यात् । पीतराग भवति ॥
 श्वेततारभागौ दावेकस्तपनीयस्य मुद्भवर्णं करोति ।।


1.संस्कृतकं भवति त 2.पृषत. " नीललोहितपातश्वेतशुकपत्रवर्णाना.
1.चास्य प्रकृतिर्भवति म. 5.चिमाचमायति । तत्पीतचूर्णित , पातचर्णित इति
व्याख्यायामू. 6.सुवर्णे रागोत्तरमपशुद्ध वा. 7.रापसारितात्
8.तारल्य माछत तत् , 9.भवति